Tuesday, July 20, 2021

अनुछेद लेखन संस्कृत

Talent Coaching Classes,Pur

                           अनुछेद लेखन संस्कृत

उदाहरणम्

1. मञ्जूषातः पदानि चित्वा पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
जलम्, क्षेत्राणाम्, विना, जीवने, स्नानाय, भोजनस्य, अस्माभिः, महत्त्वपूर्णम्, कर्तुः, क्षालनाय, दूषितेन, जायन्ते।
उत्तराणि:
1.
जलम् अस्माकं जीवनम् अस्ति।
2.
जलेन एव क्षेत्राणाम् सेचनम् भवति।
3.
वस्त्र क्षालनाय अपि जलस्य प्रयोगः भवति।
4.
जलेन विना अस्माकं जीवनम् निष्प्राणम् भवति।
5.
दूषितेन जलेन बहवः रोगाः जायन्ते।

2. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
अस्माभिः, पोषणम्, स्वर्गादपि, येन-केन-प्रकारेण, सत्यम्, मातृभूमिः, अहम्, माता, यच्छति, वन्दनीया।
उत्तराणि:
1.
मम मातृभूमिः मम प्रिया अस्ति।
2.
सा अस्मान् पोषयति वर्धयति च।
3.
सत्यम् इदम् यत् सा पोषिका।
4.
सा तु सर्वेभ्यः भारतीय-जनेभ्यः वन्दनीया अस्ति।
5.
सा स्वर्गादपि गरीयसी अस्ति।

3. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
चतुर्वादने, एकाकी, प्रतिवेशिनां, स्निह्यति, महिला, विज्ञानस्य, परिश्रमी, मयि, करोति, अस्मि, अध्यापयति।
उत्तराणि:
1.
मम जननी एका परिश्रमी महिला अस्ति।
2.
सा प्रातः चतुर्वादने उत्तिष्ठति।
3.
सा विज्ञानस्य विज्ञात्री अस्ति।
4.
सा प्रतिवेशिनां सहायतां करोति।
5.
सा मयि स्निह्यति।

4. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
प्रसिद्धसंगीतगायकस्य, अहम्, पञ्चवर्षीयः, रोचते, इच्छामि, संगीतश्रवणे, मह्यम्, आरब्धम्, स्वगुरुं, संगीतशिक्षकरूपे, भैरवीरागः।
उत्तराणि:
1.
अहम् प्रसिद्धसंगीतगायकस्य रूपे प्रसिद्धिम् इच्छामि।
2.
संगीतश्रवणे मम रुचिः वर्तते।
3.
अहम् पंचवर्षीयः अस्मि।
4.
भैरवीरागः मह्यम् अतीव रोचते।
5.
संगीतशिक्षकरूपे अपि अहम् स्वकर्त्तव्यान् पूरीकर्तुम् इच्छामि।

5 मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
रुग्णः, वर्धते, व्यायामः, अहम्, चतुर्दशवर्षीयः, एकः, प्रातः-भ्रमणेन, मया, कस्मिन्, चत्वारि।
उत्तराणि:
1.
अहम् चतुर्दशवर्षीयः छात्रः अस्मि।
2.
अहम् प्रतिदिनम् प्रातः भ्रमणम् करोमि।
3.
प्रातः भ्रमणेन अहम् स्वस्थः अस्मि।
4.
अहम् प्रातः भ्रमणाय एकस्मिन् उद्याने गच्छामि।
5.
सर्वैः प्रातः भ्रमणम् करणीयम्।

परीक्षोपयोगिनः अन्य-प्रश्नाः

1. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया वृक्षाणाम् महत्त्वम्इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
आश्रमस्थलम्, औषधम् , काष्ठम् सहायकाः, फलानि, मेघवर्षणे, विहगानाम्, पुष्पाणि, प्रकृतेः, यच्छन्ति, रक्षकाः प्राणवायुम्, शोभा, पर्यावरणस्य, छायाम्।
उत्तराणि:
वृक्षाः न केवलम् प्रकृतेः शोभां वर्धयन्ते अपितु सर्वेषाम् प्राणिनाम् कृते जीवनदायकाः खलु। वृक्षाः अस्मभ्यम् औषधम्,
काष्ठम्, पुष्पाणि फलानि च यच्छन्ति। इमे मेघवर्षणे सहायकाः प्राणिनाम् उपजीवनञ्च सन्ति। वृक्षाः स्वयम् आतपे स्थित्वा अपि आश्रितेभ्यः प्राणिभ्यः छायाम् यच्छन्ति। अत्र अस्माभिः सर्वैरपि वृक्षाः आरोपणीयाः।

2. “मम प्रियं पुस्तकं-शेमुषी-II” इति विषयम् अधिकृत्य संस्कृतेन उत्तरपुस्तिकायां पञ्चवाक्यानि लिखत। अधः सहायतायै मञ्जूषा दत्ता।|
मञ्जूषा
अभ्यासवशगं मनः, एकादशपाठाः, रटनकार्यम्, सम्प्रेषणाधारितम्, , रोचते, रमणीया हि सृष्टिरेषा, महाभारतात्, प्रश्ननिर्माणम्, घटनाक्रमनिर्धारणम् शब्दार्थाः, भावार्थाः, अन्वयाः।
उत्तराणि-
मम प्रियं पुस्तकम् शेमुषी (भाग-2) अस्ति। अस्मिन् पुस्तके एकादशपाठाः वर्तन्ते। इदम् पुस्तकम् सम्प्रेषणाधारितम् वर्तते। अत्र केचन पाठाः गद्याधारिताः केचन श्लोकाधारिताः केचन च नाट्याधारिताः सन्ति। अत्र अभ्यासकार्ये प्रश्ननिर्माणम्, घटनाक्रम निर्धारणम्, शब्दार्थाः, भावार्थः, अन्वयः चादयः प्रश्नाः छात्रान् रटनकार्यम् विरमन्ति।

3. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया दीपावलीपर्वइति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
विस्फोटकपदार्थाः, श्रीरामचन्द्रः, पर्यावरणम्, प्रमुखं पर्व, अयोध्यावासिनः, प्रज्वालयन्ति, नवीनवस्त्राणि, उपहारान्, कान्दविकानाम्, प्रदूषयन्ति, आपणाः।
उत्तराणि:
दीपावलीपर्व भारतीयानां प्रमुखं पर्व वर्तते। इदं कार्तिक मासस्य अमावस्यायाम् आयोज्यते। जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति। ते परस्परं उपहारान् अपि प्रयच्छन्ति। केचित् जनाः विस्फोटकपदार्थान् प्रज्वाल्य पर्यावरणं प्रदूषयन्ति।

4. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया मम प्रियः आचार्यःइति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जषा
अध्यक्षः, परीक्षापरिणामः, मृदुभाषी, संस्कृतभाषायाः, वक्ता, त्यागशीलः, विलम्बेन, आदर्शवान्, शतप्रतिशतम्, पाठयति।
उत्तराणि:
मम प्रियः आचार्यः मृदुभाषी अस्ति। सः संस्कृतभाषायाः वक्ता त्यागशीलः च वर्तते। तस्य परीक्षापरिणामः शतप्रतिशतम् आगच्छति। सः परिश्रमेण छात्रान् पाठयति। सः संस्कृतविभागस्य अध्यक्षः वर्तते।

5. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया मम प्रियकविःइति विषयम अधिकत्य पञ्चवाक्यानि संस्कतेन लिखत।
मञ्जूषा
कालिदासः, संस्कृतस्य, अद्वितीयः, कवीनां, उपमा अलंकारस्य, अभिज्ञानशाकुन्तलम्, प्रकृतिवर्णनम्।
उत्तराणि:
कालिदासः एव मम प्रियः कविः अस्ति। सः संस्कृतस्य अद्वितीयः कविः वर्तते। तस्य रचना अभिज्ञानशाकुन्तलम् अमरग्रन्थो वर्तते। कालिदासः उपमा अलंकारस्य प्रयोगे अतिनिपुणोऽस्ति। कालिदासस्य प्रकृति वर्णनम् अद्वितीयम् अस्ति।

6. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया प्रातः भ्रमणम्इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
प्रात:कालः, मन्दः पवनः, शीतलः, मनोहराणि दृश्याणि, सर्वत्र, सर्वे, वृद्धाः, पुष्पाणि, बालकाः उद्यानस्य, प्रकृतिवर्णनम्।
उत्तराणि-
प्रातः भ्रमणम् अतीव स्वास्थ्यकरं वर्तते। प्रातः काले मन्दः शीतलः च पवन: वहति। सर्वत्र मनोहराणि दृश्याणि भवन्ति। वृद्धाः, बालाः महिलाः च उद्याने भ्रमन्ति । उद्यानस्य वातावरणं शुद्धं भवति।

7. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया बालदिवस-समारोहःइति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
विद्यालये, अध्यापकाः, छात्राः, गतवर्षे, उत्साहेन मान्यते, पुरस्कारः, प्रथमम्, भाषणप्रतियोगिता, स्वागतम्।
उत्तराणि:
गतवर्षे अस्माकं विद्यालये बालदिवस-समारोहः अति उत्साहेन मानितः। तदा छात्राणां विविधाः प्रतियोगिताः अभवन्। छात्राः शिक्षकाः च मिलित्वा मुख्यातिथेः स्वागतम् अकुर्वन्। एकः छात्रः प्रथम पुरस्कारम् अलभत। मुख्यातिथि: स्वभाषणे विद्यालयं प्राशंसत्।

8. ‘रक्षाबन्धनपर्वइति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन पञ्च संस्कृतवाक्यानि लिखत।
मञ्जूषा
भ्रातुः, भगिनी, राखीबन्धनम्, करोति, आशीर्वादम्, उपहारम्, धनम्, प्रमुदितमनः सर्वे, देशे, भारतदेशे।
उत्तराणि:
रक्षाबन्धन पर्व सम्पूर्णे भारतदेशे उत्साहेन मान्यते। अस्मिन् पर्वणि भगिनी भ्रातुः हस्ते राखीबन्धनम् बध्नाति। प्रमुदितमनः भ्राता तस्यै उपहारं धनं वा यच्छति। भगिनी तस्मै आशीर्वादं यच्छति। इदं पर्व अतीव प्रेम्णः पर्व अस्ति।

9. ‘आदर्शः छात्रःइति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन पञ्च संस्कृतवाक्यानि लिखत।
मञ्जूषा
विद्यालयः, गुरुम्, सम्मानम्, प्रतिदिनम्, व्यवहारकुशलः, सत्यवादी, गुणनिपुणः, अध्ययने, पुस्तकानाम् आदरः।
उत्तराणि:
आदर्शः छात्रः व्यवहार कुशलः भवति। सः प्रतिदिनं गुरवे सम्मानं यच्छति। एवमेव सः गुणनिपुणः सत्यवादी च भवति। सः समये विद्यालयं गच्छति। तत्र सः पुस्तकानाम् अध्ययने समय-व्यतीतं करोति।

10. ‘वर्षा ऋतुःइति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन पञ्च संस्कृतवाक्यानि लिखत।
मञ्जूषा
मेघाः, जलम् सर्वत्र, दादुराः, ध्वनिः, रात्रौ, शीतलः वायुः, हरीतिमा, दामिनी, अपि, भीताः जनाः, कृषकाः प्रसन्नाः वृक्षाः मार्गाः, अवरुद्धाः।
उत्तराणि:
वर्षा ऋतौ सर्वत्र जलं दृश्यते। तदा सर्वत्र दादुराणां ध्वनिः गुज्जिता भवति। वर्षायाम् सर्वत्र जलं दृष्ट्वा कृषकाः प्रसन्नाः भवन्ति। रात्रौ शीतलः वायु: वहति। तदा मार्गाः अवरुद्धाः भवन्ति।

 

No comments:

Post a Comment

राजस्थान माध्यमिक शिक्षा बोर्ड 10वीं व 12वीं दोनों की परीक्षाए एक साथ 6 मार्च से होगी शुरू

बोर्ड परीक्षा की तारीखों में किया गया बदलाव, 10वीं-12वीं की मुख्य परीक्षा अब एक साथ 6 मार्च से होंगी शुरू, राजस्थान शिक्षक पात्रता परीक्षा (...